वांछित मन्त्र चुनें

ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः। अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न् क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ॥७॥

अंग्रेज़ी लिप्यंतरण

tīvrān ghoṣān kṛṇvate vṛṣapāṇayo śvā rathebhiḥ saha vājayantaḥ | avakrāmantaḥ prapadair amitrān kṣiṇanti śatrūm̐r anapavyayantaḥ ||

पद पाठ

ती॒व्रान्। घोषा॑न्। कृ॒ण्व॒ते॒। वृष॑ऽपाण॒यः। अश्वाः॑। रथे॑भिः। स॒ह। वा॒जय॑न्तः। अ॒व॒ऽक्राम॑न्तः। प्रऽप॑दैः। अ॒मित्रा॑न्। क्षि॒णन्ति॑। शत्रू॑न्। अन॑पऽव्ययन्तः ॥७॥

ऋग्वेद » मण्डल:6» सूक्त:75» मन्त्र:7 | अष्टक:5» अध्याय:1» वर्ग:20» मन्त्र:2 | मण्डल:6» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

फिर मनुष्य किन से किन्हें जीतें, इस विषय को कहते हैं ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! (प्रपदैः) अति उत्तम गमनों से (अवक्रामन्तः) इधर-उधर जाते और (अनपव्ययन्तः) व्यर्थ खर्च को न प्राप्त होते हुए तथा (रथेभिः) रमणीय यानों के (सह) साथ (वाजयन्तः) आप जाते वा दूसरों को ले जाते हुए (वृषपाणयः) वृष के समान व्यवहार जिनका वे (अश्वाः) घोड़े वा अग्नि आदि पदार्थ (तीव्रान्) तीक्ष्ण (घोषान्) शब्दों को (कृण्वते) करते हैं और (अमित्रान्) वैर करते हुए (शत्रून्) शत्रुजनों को (क्षिणन्ति) क्षीण करते हैं, उनको तुम क्षीण करो ॥७॥
भावार्थभाषाः - हे राजपुरुषो ! तुम घोड़ों को अच्छे प्रकार शिक्षा देकर तथा अग्नि आदि का संप्रयोग और शत्रुओं को आक्रमण कर जीतो ॥७॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

पुनर्मनुष्याः कैः कान् विजयेरन्नित्याह ॥

अन्वय:

हे मनुष्याः ! प्रपदैरवक्रामन्तोऽनपव्ययन्तो रथेभिः सह वाजयन्तो वृषपाणयोऽश्वास्तीव्रान् घोषान् कृण्वतेऽमित्राञ्छत्रून् क्षिणन्ति तान् यूयं क्षिणध्वम् ॥७॥

पदार्थान्वयभाषाः - (तीव्रान्) तीक्ष्णान् (घोषान्) शब्दान् (कृण्वते) कुर्वन्ति (वृषपाणयः) वृषस्येव पाणिर्व्यवहारो येषान्ते (अश्वाः) तुरङ्गा वह्न्यादयो वा (रथेभिः, सह) रमणीयैर्यानैस्सह (वाजयन्तः) गच्छन्तो वा (अवक्रामन्तः) इतस्ततो गच्छन्तः (प्रपदैः) प्रकृष्टैः पदैर्गमनैः (अमित्रान्) वैरं कुर्वतः (क्षिणन्ति) हिंसन्ति (शत्रून्) (अनपव्ययन्तः) अपव्ययमप्राप्नुवन्तः ॥७॥
भावार्थभाषाः - हे राजपुरुषा ! यूयमश्वान् सुशिक्ष्याग्न्यादीन् सम्प्रयुज्य शत्रूनाक्रम्य विजयध्वम् ॥७॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे राजपुरुषांनो ! तुम्ही घोड्यांना चांगले प्रशिक्षण देऊन अग्नी इत्यादीचा संप्रयोग करून शत्रूंवर आक्रमण करून त्यांना जिंका. ॥ ७ ॥